Saptashloki Durga

1 views

Lyrics

शिव उवाच–
 "देवि त्वं भक्त सुलभे सर्वकार्य विधायिनी
 कलौहि कार्यसिद्ध्यर्थम उपायं ब्रूहि यत्नतः"
 देव्युवाच–
 "शृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट साधनम्
 मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते"
 ♪
 ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः अनुष्टुप छन्दः
 श्री महाकाली, महालक्ष्मी, महासरस्वत्यो देवताः
 श्री दुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः
 ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा
 बलादाकृष्य मोहाय महामाया प्रयच्छति
 दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
 स्वस्थैः स्मृता मतिमतीव शुभां ददासि
 दारिद्र्यदुःखभयहारिणी का त्वदन्या
 सर्वोपकारकरणाय सदार्द्रचित्ता
 सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके
 शरण्ये त्रयंबके गौरि नारायणि नमोऽस्तुते
 शरणागतदीनार्त परित्राण पराणये
 सर्वस्यार्ति हरे देवि नारायणि नमोऽस्तुते
 सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते
 भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते
 रोगानशेषानपहंसि तुष्टा
 रुष्टा तु कामान् सकलानभीष्टान्
 त्वामाश्रितानां न विपन्नराणां
 त्वामाश्रिता ह्याश्रयतां प्रयान्ति
 सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि
 एवमेव त्वया कार्यम स्मद्वैरिविनाशनम्
 इति श्रीसप्तश्लोकी दुर्गास्त्रोतं संपूर्णं
 

Audio Features

Song Details

Duration
03:45
Key
1
Tempo
68 BPM

Share

More Songs by Anuradha Paudwal

Albums by Anuradha Paudwal

Similar Songs