Gurupaduka Stotram
2
views
Lyrics
अनंतसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम्। वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १ ॥ कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम्। दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २ ॥ नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः। मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३ ॥ नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम्। नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४ ॥ नृपालि मौलिव्रजरत्नकांति सरिद्विराजत् झषकन्यकाभ्याम्। नृपत्वदाभ्यां नतलोकपंकते: नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५ ॥ पापांधकारार्क परंपराभ्यां तापत्रयाहींद्र खगेश्र्वराभ्याम्। जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ६ ॥ शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम्। रमाधवांध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ७ ॥ स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरंधराभ्याम्। स्वांताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ८ ॥ कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम्। बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ९ ॥
Audio Features
Song Details
- Duration
- 07:16
- Key
- 7
- Tempo
- 110 BPM