Nirvana Shatakam

1 views

Lyrics

मनोबुद्ध्यहङ्कारचित्तानि नाहं
 न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
 न च व्योम भूमिर्न तेजो न वायुः
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥१॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 न च प्राणसंज्ञो न वै पञ्चवायुः
 न वा सप्तधातुर्न वा पञ्चकोशः ।
 न वाक्पाणिपादं न चोपस्थपायुः
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥२॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 न मे द्वेषरागौ न मे लोभमोहौ
 मदो नैव मे नैव मात्सर्यभावः ।
 न धर्मो न चार्थो न कामो न मोक्षः
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥३॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 न पुण्यं न पापं न सौख्यं न दुःखं
 न मन्त्रो न तीर्थं न वेदाः न यज्ञः ।
 अहं भोजनं नैव भोज्यं न भोक्ता
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥४॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 न मे मृत्युर्न शङ्का न मे जातिभेदः
 पिता नैव मे नैव माता न जन्म ।
 न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥५॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 अहं निर्विकल्पॊ निराकाररूपॊ
 विभुत्वाञ्च सर्वत्र सर्वेद्रियाणाम् ।
 न चासङ्गतं नैव मुक्तिर्न मेयः
 चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥६॥
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्
 चिदानन्दरूपः शिवोऽहं शिवोऽहम्

Audio Features

Song Details

Duration
03:04
Key
11
Tempo
140 BPM

Share

More Songs by Alvin Bruno

Similar Songs